पूर्वा सप्तमी (23-6-2015)
लक्ष्मीनारायण संहिता का पुरुषोत्तममास पूर्वा सप्तमी माहात्म्य संक्षेप में इस प्रकार है कि विश्वकर्मा की दो पुत्रियां हैं – ज्येष्ठ सिद्धि व कनिष्ठ बुद्धि। दोनों ब्रह्म मुहूर्त से लेकर शयन काल तक अपने माता – पिता की सेवा करती हैं – शय्या को झाडना, बिछाना, प्रातःकाल होने पर शय्या को उठाकर रखना, घर में झाडू देना, रात्रि के पात्रों का मार्जन करना, स्नान के लिए जल लाना, जल को चूल्हे पर गर्म करना, स्नान के पश्चात् वस्त्रों को धोना, रस्सी पर फैलाना, माता – पिता के लिए दुग्ध प्रस्तुत करना, माता-पिता द्वारा की जा रही पूजा के लिए पुष्प, फल आदि का संग्रह करना, रसोई में व्यंजन तैयार करने के लिए व्यंजनों की सफाई करना, आग जलाना, पकाना, फिर रसोई की सफाई करना, पात्रों का मार्जन करना आदि आदि। कालान्तर में इन सिद्धि व बुद्धि का विवाह गणेश या पुरुषोत्तम से हो जाता है। जो गणेश है, वह पुरुषोत्तम है। जो पुरुषोत्तम है, वह गणेश है। सिद्धि व बुद्धि गणेश को मोदक खिलाती हैं।
पुराणों आदि में सिद्धि का जो वर्णन मिलता है, उसका आरम्भ इस प्रकार होता है कि सिद्धियां आठ प्रकार की हैं – अणिमा, महिमा, लघिमा, प्राकाम्य, ईशिता, वशित्व आदि। इन सिद्धियों के प्राप्त कर लेने पर संसार में कार्यों के निष्पादन में जो विघ्न पग – पग पर आते हैं, वह समाप्त हो जाते हैं। और सिद्धि प्राप्ति का वर्णन समाधि के संदर्भ में आता है। सामान्य जीवन में न तो समाधि लगेगी, न ही सिद्धियां प्राप्त होंगी। लक्ष्मीनारायण संहिता पहला ग्रन्थ है जहां सिद्धि व बुद्धि को सामान्य जीवन से जोडा गया है(ऐसा लगता है कि लक्ष्मीनारायण संहिता का कोई भी वर्णन स्वतन्त्र रचना नहीं है, अपितु रचनाकार को अपने काल में जहां से जो कुछ अच्छा मिला, उसका रूपान्तरण किया है।)। सिद्धि व बुद्धि के सामान्य जीवन में विशिष्ट कार्य क्या हो सकते हैं, इसका निर्णय गणेश पुराण 2.85.28 के इस कथन से किया जा सकता है कि बुद्धि द्वारा प्राची दिशा की रक्षा की जाती है जबकि सिद्धि द्वारा आग्नेयी दिशा की। प्राची दिशा ज्ञान प्राप्ति की दिशा है। अतः बुद्धि का उपयोग ज्ञान प्राप्ति के लिए होना चाहिए। आग्नेय कोण श्रद्धा – अश्रद्धा की दिशा है। अपनी श्रद्धा की पुष्टि के लिए सिद्धि का उपयोग किया जाना चाहिए। लक्ष्मीनारायण संहिता में श्रद्धा को शय्या बिछाते हुए, दुग्ध पाक करते हुए, भोजन पकाते हुए कहा गया है। यह सब पाक श्रद्धा के रूप हैं क्योंकि श्रद्धा शब्द शृत – पकाना धातु से बना है। भोजन को पकाने का एक रूप तो यह है कि उसे अग्नि पर पका लिया जाए। पाक का दूसरा रूप यह है कि हममें इतनी सामर्थ्य होनी चाहिए कि बाहरी आग से भोजन को पकाने की अपेक्षा अपने अन्दर की आग से भोजन पकना चाहिए। अन्दर की आग हमारे संकल्प, विचार, भावना आदि का कोई रूप हो सकता है। लोककथाओं में भक्तों का वर्णन आता है जो अनशन करके बैठ जाते हैं कि जब तक हमारे इष्टदेव भोजन ग्रहण नहीं कर लेंगे, हम भोजन नहीं करेंगे। यह सिद्धि प्राप्ति का एक उपाय हो सकता है। पुराणों में जो सिद्धि का वर्णन आता है, वह सिद्धि का यही विकसित रूप है।
लक्ष्मीनारायण संहिता में बुद्धि को मार्जन कार्य करते हुए दिखाया गया है। यह तर्कसंगत ही है।
लक्ष्मीनारायण संहिता के वर्णन में सिद्धि व बुद्धि को विश्वकर्मा की पुत्रियां कहा गया है, लेकिन पुराणों में इन्हें प्रजापति विश्वरूप की पुत्रियां कहा गया है। डा. फतहसिंह के अनुसार एक सर्वरूप है, एक विश्वरूप। जब हमारी चेतना अंतर्मुखी होने लगती है, तब वह विश्वरूप कहलाती है।
सप्तमी तिथि सूर्य की आराधना की तिथि मानी जाती है। सिद्धि के स्वरूप को देखते हुए इसे सूर्य का ही रूप कहा जा सकता है।
श्रीनारायण उवाच-
शृणु लक्ष्मि! दुन्दुभेस्तु निनादेन कृतं व्रतम् । सत्यलोकस्थिताभ्यां तु कन्याभ्यां विश्वकर्मणः । ।। १ । ।
सत्यस्वर्गादिलोकानां राज्ञां पातालवासिनाम् । नगराणां भवनानां सभानां यज्ञकर्मिणाम् ।। २ । ।
मण्डपानां विनिर्माता नारायणांश एव यः । तस्य कन्या सिद्धिनाम्नी ज्येष्ठा बुद्धिः कनीयसी । । ३ । ।
सिद्धिबुद्धी सुरूपे च सुशीले देवपूजिके। नित्यं नारायणं स्मृत्वा प्रातः स्नात्वा तदुत्तरम् । । ४ । ।
पित्रोश्चरणयोर्नत्वा ब्राह्मसंज्ञे मुहूर्तके । गृहे देवगृहे चापि दीपं प्रज्वाल्य वै ततः ।। ५ । ।
धूपं कृत्वा सुगन्धं च कीर्तनं कुरुतश्च ते । देवं नत्वा तु पुष्पाणि जलं च शर्करादनम् ।। ६ ।।
समर्प्य गृहकार्याणि कुरुतश्चोभये ततः । सिद्धिस्तत्र सरोमध्याज्जलं त्वाहरति द्रुतम् ।। ७ ।।
मार्जयित्वा गृहं बुद्धिर्वह्निं प्रज्वालयत्यपि । चुल्लिकायां जलपात्रमुष्णीकरणहेतवे ।। ८ ।।
स्थापयित्वा च पितरो प्रस्नापयति भावुका । सिद्धिस्तावद्गृहशय्यादिकं संगृह्य शय्यधौ ।। ९ ।।
रक्षयित्वाऽथ पर्यंकान् सम्मार्ज्योन्नीय सुस्थले । संक्लृप्य रात्रिपात्राणां मञ्जनं प्रकरोति वै ।। १० ।।
तावद् बुद्धिः स्नातयोश्च पित्रोरार्द्राम्बराणि तु । प्रक्षाल्य रज्ज्वां विन्यस्य गत्वोद्यानं गृहानुगम् ।। ११ ।।
देवपूजादिकार्यार्थं पुष्पाण्यानयति द्रुतम् । माता चाथ पिता यावत्तूपयांति हरेर्गृहम् ।। १ २।।
आसने तावदास्तीर्य सन्ध्याद्यर्थे ददात्यपः । तुलसीपत्रकाऽम्भोजकुन्दचम्पकमालिकाः ।।१ ३।।
ददाति देवपूजार्थं पित्रोः परमभावतः । चन्दनाऽक्षतकुंकुमपञ्चामृतजलानि च ।। १४।।
पात्राणि पूजनार्हाणि घृतवतीश्च शर्कराः । द्राक्षादाडिमबीजानि विविधानि फलानि च ।। १५।।
एलालवंगताम्बूलनैवेद्यान्यानयत्यपि । पूजास्थां मातरं चाथ पूजास्थं पितरं तदा ।। १६।।
दश प्रदक्षिणाः कृत्वा कृत्वा दश नमस्क्रियाः । मातापितृचरणयोर्धौतं प्रगृह्य वै जलम् ।। १७।।
पार्श्वे तिष्ठति सेवार्थं दर्शनं प्रकरोति च । तावत्तत्र समागत्य सिद्धिरपि तथैव तत् ।। १८।।
प्रदक्षिणानमस्कारादिकं कृत्वा प्रसादजम् ।जलं पीत्वा पुनर्याति चुल्लिकासन्निधौ गृहे ।। १ ९।।
महानसे तु पाकार्थं सामग्री सकलाश्च सा । सुशोधयित्वा सन्न्यस्य बुद्धिमाहूय तामनु ।।२० ।।
करोति भक्ष्यभोज्यानि पेयानि विविधान्यपि । दुग्धपानं तु सा पित्रोः सिद्धिः कारयति द्रुतम् ।।२१ ।।
पूजापात्राणि सर्वाणि मृदा संघृष्य वै ततः । शुद्ध्वा प्रातर्विधेयं यत् कृत्वा सर्वं ततो ह्युभे ।।२२।।
विद्याभ्यासं च कुरुते वैश्वदेवान्तकं ततः । कृत्वा तौ भोजयित्वा च विधिं माध्याह्निकं पुनः ।। २३ ।।
कृत्वा चातिथिगोजन्तुभागान् दत्वाऽऽश्रितादनम् । ततः स्वे भोजनं प्रासादिकं चक्रतुरादरात् ।। २४।।
महानसप्रशुद्धिं च पात्रशुद्धिं प्रमार्जनम् । जलाहरणमन्नादिशोधनं त्वपराह्णके ।। २५।।
देहश्रांगारिकं कृत्वा विरामं प्राप्नुतः क्षणम् । ततस्तीर्थकथादेव दर्शनादि विधाय तु ।। २६ ।।
सायं कृष्णस्य संपूजा षोडशोपसुवस्तुभिः । कृत्वा पक्वान्नमिष्टानि भोजयित्वाऽतिभावतः ।। २७।।
पितरौ तु ततः शय्यादिकं संस्तीर्य ते ह्युभे । पादसंवाहनं पित्रोः कृत्वा सेवनमित्यपि । । २८ ।।
दैनं तु यत् स्वकं गोसेवनं कीर्तनमैश्वरम् । यन्न्यूनं तत्तु सम्पूर्णं कृत्वा निःशेषमित्युभे ।। २९।।
किंचिदध्ययनं कृत्वा गृह्णीतः स्वापमल्पकम् । ब्राह्मकाले समुस्थायाऽभ्यस्तां विद्यां विचार्य च ।। ३० ।।
पुनश्च नैत्यकं कार्यं कुरुतः कन्यके ह्युभे । एवं तु सेवया हृष्टौ पितरौ त्वतिभावतः ।। ३१ ।।
युयुजतुः शुभाशीर्भिः 'सुखिन्यौ भवतं ह्युभे । ईश्वरे प्रेमयुक्तत्वान्नारायणहरिप्रभुः ।। ३ २।।
युवाभ्यां प्राप्स्यते काले सेवनीयतमः शुभः । इत्याशीर्वादपात्रे ते नित्यं हृदि हरिं मुहुः ।। ३३ ।।
वाञ्छतः श्रीहरिं कृष्णं नारायणमधीश्वरम् । एवं व्रते सत्यलोके ताभ्यां मे दुन्दुभिः श्रुतः ।। ३४।।
अधिमासस्य सप्तम्यां प्रातर्वै व्रतबोधकः । स तु बोधयते लोकान् अधिमासव्रतानि वै ।। ३५।।
करिष्यन्ति यथाशक्ति ये ब्रह्माण्डगता जनाः । नरा नार्योऽथवा त्वन्ये तेषामभीष्टदायकः ।। ३ ६।।
अलभ्यलाभदाताऽस्मि ह्यहं श्रीपुरुषोत्तमः । मासिकं पाक्षिकं साप्ताहिकं दैनिकमेव वा ।। ३ ७।।
नैशं पौर्वाह्णिकं यद्वा पाराह्णिकं च मध्यगम् । उपवासान् फलाहारान् पयःपानं जलाशनम् ।। ३८ ।।
कन्दाशनं निवाराद्यशनं सायं निशाशनम् । दिवाशनं वैकभुक्तं तिलभुक्तमयाचितम् ।। ३९ ।।
कृत्वा यथाबलं पुष्पैः सम्पूज्य पुरुषोत्तमम् । जलेन वा फलैर्वापि मूलेन कुंकुमेन वा ।।४० ।।
अक्षतैश्चन्दनेनापि सम्पूज्य पुरुषोत्तमम् । वस्त्रेण च सुदुग्धेन गूडेन मिष्टयाऽथवा ।। ४१ ।।
शर्कराभिर्जलपानैस्ताम्बूलेनच्छदादिना । पत्रेण वाऽतिभावेन प्रेम्णा मां पुरुषोत्तमम् ।।४२ ।।
सन्तुष्याऽधिकमासे ते मत्तोऽर्जयन्तु दुर्लभम् । इदानीं कृपया दास्ये कृते स्वल्पेऽपि साधने ।।४३ ।।
अन्यमासेषु यत् कष्टसाध्यं भवति चात्र तत् । स्वल्पस्यापि ददाम्येव कोटिगुणितमद्य वै ।।४४।।
पश्चान्नैव प्रदास्येऽहं तस्माद् गृह्णन्तु भो जनाः । फलं पूगीफलस्यापि पारमेष्ठ्यपदाधिकम् ।।४५।।
जलपात्रव्रतेनापि क्षीरसागरशायिताम् । एकभुक्तव्रतेनापि गोलोकस्याऽधिकारिताम् ।।४६।।
नक्तमात्रव्रतेनाऽपि नारायणसमानताम् । पत्रपुष्पप्रदानेऽपि महेन्द्रपदशालिताम् ।।४७।।
दीपमात्रप्रदानेऽपि सूर्यचन्द्रादिदेहिताम् । नरो वा यदि वा नारी कुमारो वा कुमारिका ।।४८।।
इच्छति चेन्ममलक्ष्मीमपि मां पुरुषोत्तमम् । पत्नीं पतिं च वा पुत्रं दास्ये लक्ष्मीं च मामपि ।।४९।।
प्रगृह्णन्तु वरानस्मत् प्रकुर्वन्तु च सञ्चयम् । महाकृपामहावृष्टिलभ्यं पुण्यबलोदयम् ।।५०।।
सत्यं सत्यं नाऽनृतं वै घोषयत्येव दुन्दुभिः । अधिमासव्रतं कृत्वा गृह्णन्तु स्वेप्सितं प्रजाः ।।५१ ।।
इत्याश्रुत्य ह्युभे कन्ये सप्तम्यां प्रातरेव ह । दुन्दुभिं मे प्रणम्यैव वर्धयित्वाऽञ्जलिद्रवैः ।।।५२।।
पूजयित्वा सुपुष्पैश्च हर्षयुक्ते बभूवतुः । पुनस्तावद्दुन्दुभेश्च कृपावाक्यं श्रुतं शुभम् ।।५३।।
कुमारिके यदीच्छेतां पतिं मां पुरुषोत्तमम् । एकभुक्तव्रतेनापि भविष्यामि पतिस्तयोः ।।५४।।
पूजां माध्याह्निकीं कृत्वा यथालब्धोपचारकैः । मिष्टान्नं भोजयित्वा मां प्राप्स्यतः पुरुषोत्तमम् ।।५५।।
इत्येवं संवदन्तं तं मत्वा स्वयोः कृते शुभम् । सिद्धिबुद्धी विदित्वा स्वं भाग्योदयमुपागतम् ।।५६।।
पूजयित्वा स्वपितरौ भोजयित्वा विधानतः । गृहकार्यं विनिर्वर्त्य पुष्पचन्दनवारिभिः ।।५७।।
अक्षतैश्चापि मिष्टान्नैर्धूपदीपसुचर्वणैः । यान्यासन् स्वगृहे तैस्तैरर्चयित्वा तु कानकम् ।।५८।।
नारायणं हरिं देवं पतिप्राप्तीच्छया शुभे । नीराजयामासतुश्च ह्यर्थे कामफलं शुभम् ।।५९।।
दत्वा संप्रार्थयामासतुश्च नौ त्वं पतिर्भव । इत्युक्त्वाऽक्षतसंपूर्णाञ्जली ददतुरादरात् ।।६० ।।
तावच्छ्रीभगवान् साक्षात् कृष्णनारायणः स्वयम् । युवा कटाक्षबाणेन निरीक्षन् प्राविरास वै ।।६१ ।।
द्वयोः प्रकोष्ठे संगृह्य स्वकरेण हरिः स्वयम् । मस्तकयोः करौ कृत्वा वक्षस्याकृष्य ते ह्युभे ।।६२।।
प्रिये इति च संभाष्य निभाल्य च मुहुर्मुहुः । मिलितोऽस्मि च जातोऽस्मि मिलिते विधिवत् प्रिये ।।६३।।
इत्युक्त्वाऽन्तर्दधे कृष्णस्ते ह्युभे तं हरिं सदा । जाग्रत्यपि तथा स्वप्ने पश्यतो वै मनोहरम् ।।६४।।
पार्वत्यंकस्थितं कृष्णमेकशुण्ढं क्वचित्पुनः । अशुण्ढं मुरलीयुक्तं गोलोकस्थं व्यपश्यताम् ।।६५।।
वरयोग्यं पुनस्तं च गणेशं शंकरात्मजम् । सशुण्ढं च सुरूपं च ददृशतुः क्षणान्तरे ।।६६।।
श्वेतवर्णं सुनेत्रं च सुभालं यौवनान्वितम् । कृष्णात्मकं च तं दृष्ट्वा मुमूहतुः पुनः पुनः ।।६७।।
क्वचित्स्वप्ने च ते कन्ये कुर्वन्त्यौ मोदकान् बहून् । पश्यतः स्म च तत्रैत्य गणेशः फलकासने ।।६८।।
निषद्याऽर्थयते लड्डून् अन्येऽपि ददतुस्तदा । पार्श्वद्वये ह्युभे स्थित्वा ददतुर्लडडूऽकान् मुहुः ।।६९।।
गणेशः स्वल्प शुण्डेन पार्श्वद्वये कृतेन च । वारंवारं प्रदत्तान् सुलड्डून्प्राप्य निजे मुखे ।।७०।।
न्यस्यत्यतीव मिष्टाँश्च प्रेम्णा भक्षयति द्रुतम् । प्रशंसति करौ दत्वा कन्ययोः पृष्ठयोस्तदा ।।७१।।
एकैकं लडडुकं ताभ्यां दत्वा संभोजयत्युभे । हसन् हास्यं प्रकुर्वन् रामयन् संरमयन्मुदा ।।७२।।
दर्शयित्वैवमात्मानं तिरोभावं प्रगच्छति । कन्येऽपि जाग्रते भूत्वा मुहुः संस्मरतुश्च तम् ।।७३।।
एवं हृद्ये गणपतौ जाते कालेऽप्युपस्थिते । विश्वप्रकर्मणा ज्ञात्वा प्राग्वृत्तान्त तदीयकम् ।।७४।।
गणेशं तु समाहूय विधिना लग्नशालिना । गणेशायाऽर्पिते कन्ये सिद्धिबुद्धी समाह्वये ।।७५।।
विवाहोत्तरकालेऽत्रऽऽश्चर्यं जातं महच्छृणु । गणेशेन कृते रूपे द्वे तदानीं गृहान्तरे ।।७६।।
एकं श्रीकृष्णरूपं च गणेशात्म द्वितीयकम् । कन्ययोश्चापि रूपे द्वे द्वे कृते सुमनोहरे ।।७७।।
राधातुल्ये तु रूपे द्वे श्रीकृष्णो गरुडोपरि । नीत्वा ययौ स्वकं धाम गोलोकं शाश्वतं तदा ।।७८।।
तत्र वै रमते सिद्ध्या बुद्ध्या च दिव्यरूपया । एवं ताभ्यां फलं मुक्यात्मकं दत्तं व्रतस्य वै ।।७९।।
अथाऽन्येन स्वरूपेण गणेशाख्येन तेन ते । उभे कृत्वा स्वके त्वंके प्रेम्णा निभालिते मुहुः ।।८०।।
चुम्बिते गण्डयोश्चापि तोषितेऽन्तर्गृहे गते । नवयौवनभावस्य फलं वै प्रापिते रतेः ।।८१।।
इति लक्ष्मि! फलं ताभ्यां लब्धं कृष्णधवात्मकम । दिव्यं लोकेऽपि विख्यातिं प्राप्तं रूपं द्वयं द्वयम् ।।।८२।।।
पूज्यभावं प्रतिष्ठां च प्राप्तेऽधिमास सत्कृतात् । एकभुक्तव्रताद् यद्वा प्राप्तवस्तुभिरर्चनात् ।।८२।।।
एवं या कन्यका कुर्यात्पुरुषोत्तमपूजनम् । सप्तम्यां त्वेकभुक्तं च वाञ्च्छया कृष्णसत्पतेः ।।८४।।
साऽवश्यं यत्र कुत्रापि प्रादुर्भूतं स्वकं पतिम् । कृष्णनारायणं दिव्यं मानवं सा त्ववाप्स्यति ।।८५।।
भुक्तिं कृत्वा बहून लोकान् सम्प्राऽनुभूय शाश्वतान् । ततः श्रीकृष्णगोलोकं वैकुण्ठं वाऽऽप्स्यति ध्रुवम् ।।८६।।
तस्माद् व्रतं प्रकर्तव्यमधिमासप्रसंभवम् । अनायासेन मुक्तिः स्यात् पुनर्जन्म न शिष्यते ।।८७।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये विश्वकर्मणः सिद्धिबुद्धिपुत्रीभ्यां माता- पितृसेवयाऽऽशीर्वादोत्तरमधिकमासव्रत बोधकदुन्दुभिश्रवणोत्तरं कृतेन सप्तम्यां एकभुक्तव्रतेन तयोः श्रीकृष्णदर्शनरूपद्वयप्राप्तिर्गोलोकवासो गणपत्यात्मककृष्णेन सह विवाहश्चेत्यादिनिरूपण-नामैकोनशताधिकद्विशततमोऽध्यायः ।। १.२९९।।
सिद्धि गणेश २.६३.१५(देवान्तक असुर की सेना से युद्ध में गणेश द्वारा अणिमा आदि अष्ट सिद्धियों का आह्वान, सिद्धियों द्वारा व्यूह निर्माण, आठ दैत्यों से युद्ध), २.६४.२९(देवान्तक से युद्ध में अष्ट सिद्धियों के विशिष्ट कार्य), २.६९.६(अष्ट सिद्धियों का देवान्तक असुर से युद्ध, सिद्धियों द्वारा देवान्तक की शक्ति अस्त्र को रोकना), २.८५.२८(सिद्धिदायक गणेश से आग्नेय दिशा की तथा बुद्धीश से प्राची दिशा की रक्षा की प्रार्थना), २.१०३.१०(सिद्धि व बुद्धि द्वारा कमलासुर के रक्त बीज रूपी रक्त पान का कथन), २.१०९.१०(गणेश के सिद्धि - बुद्धि से विवाह का वृत्तान्त), गरुड १.२१.३(वामदेव शिव की १३ कलाओं में प्रथम), गर्ग ५.१५.२६(कृष्ण – राधा की कपिल – सिद्धि से उपमा), देवीभागवत ४.२२.४०(सिद्धि का कुन्ती रूप में अवतरण), १२.६.१५१(गायत्री सहस्रनामों में से एक), नारद १.९१.८२(सद्योजात शिव की प्रथम कला), ब्रह्म २.५२(सिद्धेश्वर तीर्थ का माहात्म्य, बृहस्पति द्वारा इन्द्र के राज्य की स्थिरता के लिए शिव की स्तुति), ब्रह्मवैवर्त्त ४.७८, ब्रह्माण्ड १.१.५.६१(मनुष्यों में ब्रह्मा के सिद्धि द्वारा स्थित होने का उल्लेख), ४.१९.३(अणिमादि १० सिद्धियां), ४.३६(अणिमादि सिद्धियां), भागवत ६.१८, ११.१५(सिद्धियों के नाम व लक्षण), लिङ्ग १.८८.९(८ सिद्धियों वाले ऐश्वर्य का विवेचन), २.२७.१०१(अणिमा, लघिमा आदि व्यूह), वायु १३, शिव २.४.२०(गणेश के सिद्धि व बुद्धि से विवाह, सिद्धि से क्षेम व बुद्धि से लाभ पुत्र की प्राप्ति का वर्णन), ७.२.३८.९(विघ्नों के शान्त होने पर सिद्धिसूचक उपसर्गों का वर्णन), स्कन्द ४.२.७९.१०५(सिद्धेश्वरी पीठ का संक्षिप्त माहात्म्य), ५.२.११(सिद्धि प्राप्ति हेतु सिद्धेश्वर लिङ्ग का माहात्म्य), ५.२.५९.५३, ५.२.७४.५६, ५.३.१६६(पुत्र प्राप्ति हेतु सिद्धेश्वरी तीर्थ का माहात्म्य), ७.१.१४(सिद्धेश्वर लिङ्ग का माहात्म्य, वालखिल्य आदि ऋषियों द्वारा सिद्धि प्राप्ति), ७.१.५२, लक्ष्मीनारायण १.१०८, १.२९९, १.३८५.४५(सिद्धि का कार्य – ओष्ठप्ररंजक देना, बुद्धि द्वारा गण्डबिन्दु देना), २.१७६.६०(ज्योतिष में सिद्धि योग ), कथासरित् २.५.९१सिद्धिकरी, द्र. दक्ष कन्याएं siddhi
बुद्धि अग्नि ८४.३४(बुद्धि के भोग होने का उल्लेख?), गणेश २.६४.३६ (देवान्तक से युद्ध में सिद्धियों की पराजय पर बुद्धि द्वारा युद्ध का वर्णन), २.८५.२८(बुद्धीश गणेश से प्राच्यत: रक्षा की प्रार्थना), २.१०९.१०(गणेश के सिद्धि - बुद्धि से विवाह का वृत्तान्त), गरुड १.२१.४(वामदेव शिव की १३ कलाओं में से एक), ३.२८.८३(सुष्ठु व दुष्ट बुद्धि रूपी भार्या-द्वय का कथन), ३.२८.८५(बुद्धि पत्नी के कनिष्ठा व ज्येष्ठा स्वरूपों का कथन), गर्ग ३.९.२१(कृष्ण की बुद्धि से यवस गुल्मों के प्राकट्य का उल्लेख), देवीभागवत ११.२२.३३(प्राणाग्नि होत्र में पत्नी का रूप), नारद १.४४.३२(पांच इन्द्रिय, छठां मन, सातवीं बुद्धि व आठवां क्षेत्रज्ञ होने का उल्लेख, बुद्धि के कार्य का कथन), १.६६.९४(कृष्ण की शक्ति बुद्धि का उल्लेख), पद्म ४.८६.९७(दुर्गा के मर्त्य स्तर पर बुद्धि होने का उल्लेख), ब्रह्मवैवर्त्त २.१०.१५२(धर्म द्वारा सरस्वती को धर्मबुद्धि देने का उल्लेख), ३.७.७४(बुद्धि के ईश्वरी/प्रकृति तथा मेधा आदि के उसकी कलाएं होने का कथन), ४.८६.९७(मनुष्य में बुद्धि के दुर्गा स्वरूप होने का उल्लेख), ४.९४.१०७(प्रकृति के बुद्धि रूपा होने का उल्लेख), ब्रह्माण्ड १.१.३.३८(अबुद्धिपूर्व प्रथम सर्ग का कथन), १.१.५.१००(ब्रह्मवृक्ष में बुद्धि स्कन्ध होने का उल्लेख), १.१.५.१०४(३ अबुद्धिपूर्वक प्राकृत सर्ग तथा ६ बुद्धिपूर्वक वैकृत सर्गों का कथन), ३.४.१९.१७(बुद्ध्याकर्षणी : चन्द्रमा की १६ शक्तियों में से एक), ३.४.३६.६९(चन्द्रमा की कला रूपी गुप्त योगिनी संज्ञक १६ शक्तियों में से एक), भविष्य १.२.१२९(प्राणियों में बुद्धिमान व बुद्धिमानों में नर की श्रेष्ठता का कथन), ३.२.१.५(बुद्धिदक्ष द्वारा पद्मावती कन्या के संकेतों को समझ कर स्वमित्र वज्रमुकुट का पद्मावती से मिलन कराने की कथा), ३.२.११.१२(बुद्धि प्रकाश : धर्मवल्लभ - मन्त्री, नृप हेतु कन्या का अन्वेषण, प्राप्ति, राज्यविनाश के भय से मरण), ३.४.७.२२(राजसी, सात्त्विकी व तामसी बुद्धि के पति रूप में क्रमश: ब्रह्मा, विष्णु व महेश का उल्लेख), ३.४.८.८८(अव्यक्त में बुद्धि के विद्या और व्यक्त में अविद्या होने का कथन), भागवत ४.१.५१(दक्ष - कन्या, धर्म - पत्नी, अर्थ - माता), ६.५.७, १४(बुद्धि का बहुरूपा स्त्री, स्वैरिणी आदि रूप में कथन), मत्स्य ३.२७(पांच गुणों वाली गन्ध/भूमि के बुद्धि होने का उल्लेख), ४.२५(मनु व शतरूपा की ७ सन्तानों में से एक), २६०.५५(विनायक के ऋद्धि - बुद्धि से युक्त होने का उल्लेख), मार्कण्डेय १००.३६/९७.३६(रैवत मन्वन्तर को सुनने से बुद्धि प्राप्ति का उल्लेख), वायु ४.३३/१.४.३१(बुद्धि शब्द की निरुक्ति), ९.११४/१.९.१०६(ब्रह्मवृक्ष रूपी पुरुष में स्कन्ध के बुद्धि होने का उल्लेख), १०.२५(दक्ष की धर्म को प्रदत्त १३ कन्याओं में से एक), १०.३६(बोध व अप्रमाद - माता), ५९.७४(महान् शरीर में बुद्धि के चतुर्विध रूपों ज्ञान, वैराग्य, ऐश्वर्य व धर्म के रूप में प्रकट होने का उल्लेख), ६६.१८/२.५.१८(तुषित देवों में से एक), १०२.२०/२.४०.२०(प्रलय काल में बुद्धि लक्षण वाले महान् द्वारा भूतादि को ग्रसने का उल्लेख), १०३.१४/२.४१.१४(प्रधान के सर्व कार्य बुद्धि पूर्व होने तथा अबुद्धिपूर्व क्षेत्रज्ञ द्वारा इन गुणों को नियन्त्रित करने का कथन), विष्णु १.८.१८(विष्णु के बोध व लक्ष्मी के बुद्धि होने का उल्लेख), विष्णुधर्मोत्तर ३.२०६(बुद्धि प्राप्ति व्रत), शिव २.४.२०.२(विश्वरूप - कन्या, गणेश से विवाह, लाभ नामक पुत्र की प्राप्ति), स्कन्द १.२.५.९५(बुद्धि के बहुरूपा स्त्री से एकरूपा बनने का कथन), २.७.१९.२१(बुद्धि के शम्भु? से श्रेष्ठ व प्राण से अवर होने का उल्लेख), ४.२.८८.६०( पार्वती के रथ में सारथि), ५.२.६४.१३(बुद्धि स्त्री द्वारा राजा पशुपाल को दस्युओं से मुक्ति हेतु प्रबोधन), महाभारत वन १८१.२४(मन व बुद्धि में अन्तर), शान्ति १७.२१(बुद्धि की परिभाषा), २४७.१६(बुद्धि द्वारा महाभूतों के गुणों को इन्द्रियों से जोडने का कथन), २४८(इन्द्रियों द्वारा अर्थ के निर्णय में बुद्धि का महत्त्व), २५४.९(शरीर रूपी पुर में बुद्धि के स्वामिनी व मन के मन्त्री होने का कथन), २५५.१०(बुद्धि के ५ मुख्य गुणों के नाम तथा विस्तृत रूप में ६० गुण होने का कथन), २७४.१२(वाक् - मन को बुद्धि द्वारा व बुद्धि को ज्ञानचक्षु द्वारा वश में करने का निर्देश), ३०१.१४(बुद्धि के ७ गुणों का उल्लेख), आश्वमेधिक २५.१५(ब्रह्मात्मा/बुद्धि के उद्गाता होने का उल्लेख), ३४.१२(ब्राह्मण गीता के अन्तर्गत मन के ब्राह्मण व बुद्धि के ब्राह्मणी होने का उल्लेख), योगवासिष्ठ ४.४२.२३३(वासना ग्रस्त होने पर अहंकार के बुद्धि और बुद्धि के मन बनने का कथन), ६.१.१२८.११(बुद्धि का ब्रह्मा में न्यास), ६.२.८७.११(अहं भाव के घनीभूत होने पर बुद्धि तथा बुद्धि के घनीभूत होने पर मन संज्ञा का उल्लेख), लक्ष्मीनारायण १.१०८.५(विश्वरूप प्रजापति द्वारा स्वकन्याओं सिद्धि व बुद्धि का गणेश से विवाह, बुद्धि से लाभ पुत्र की उत्पत्ति का कथन), १.२९९.३(विश्वकर्मा की पुत्रियों सिद्धि व बुद्धि द्वारा अधिक मास सप्तमी व्रत से गणेश रूप धारी कृष्ण की पति रूप में प्राप्ति का वृत्तान्त), १.३८५.४८(बुद्धि पत्नी का कार्य : गण्डबिन्दु), १.५४७.५५(त्रिगुणात्मिका बुद्धि दासी द्वारा राजा से महान् तथा अहंकार आदि पुत्रों की उत्पत्ति, पुत्रों व प्रपौत्रों द्वारा राजा के धर्षण आदि का वृत्तान्त), २.७८.३८(आत्मा पति तथा बुद्धि पत्नी का कथन), २.२५५.३८ (बुद्धि तत्त्व के अन्ता, ममता आदि ७ भावों के नाम), ४.२४.२६ (बुद्धि के प्रमोक्षिणी दारा होने का उल्लेख), कथासरित् ७.९.१४७(कर्पूरक - पत्नी, कर्पूरिका - माता), १०.१०.१३६(बुद्धिप्रभ नृप की दिव्य पुत्री हेमप्रभा का वृत्तान्त), १०.१०.१८१(बुद्धिप्रभ : नृप, रत्नाकार नगरवासी, रत्नरेखा - पति, हेमप्रभा - पिता), १२.८.६३(बुद्धिशरीर : प्रतापमुकुट राजा का मन्त्रि - पुत्र, वज्रमुकुट - मित्र ), द्र. गम्भीरबुद्धि, धृष्टबुद्धि, प्रपञ्चबुद्धि buddhi
अध्याय ३८
उपमन्युरुवाच
आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः ॥ ७.२,३८.१
अनवस्थितचित्तत्वमश्रद्धा भ्रांतिदर्शनम् ॥ ७.२,३८.१
दुःखानि दौर्मनस्यं च विषयेषु च लोलता ॥ ७.२,३८.२
दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ ७.२,३८.२
आलस्यमलसत्त्वं तु योगिनां देहचेतनोः ॥ ७.२,३८.३
धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः ॥ ७.२,३८.३
प्रमादो नाम योगस्य साधना नाम भावना ॥ ७.२,३८.४
इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः ॥ ७.२,३८.४
अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते ॥ ७.२,३८.५
५९५
अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि ॥ ७.२,३८.५
विपर्यस्ता मतिर्या सा भ्रांतिरित्यभिधीयते ॥ ७.२,३८.६
दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः ॥ ७.२,३८.६
आधिभौतिकमंगोत्थं यच्च दुःखं पुरा कृतैः ॥ ७.२,३८.७
आधिदैविकमाख्यातमशन्यस्त्रविषादिकम् ॥ ७.२,३८.७
इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते ॥ ७.२,३८.८
विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता ॥ ७.२,३८.८
शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः ॥ ७.२,३८.९
उपसर्गाः प्रवर्तंते दिव्यास्ते सिद्धिसूचकाः ॥ ७.२,३८.९
प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ॥ ७.२,३८.१०
उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः ॥ ७.२,३८.१०
सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते ॥ ७.२,३८.११
प्रतिभा कथ्यते यो ऽर्थे प्रतिभासो यथातथम् ॥ ७.२,३८.११
श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः ॥ ७.२,३८.१२
वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥ ७.२,३८.१२
दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ॥ ७.२,३८.१३
तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥ ७.२,३८.१३
स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता ॥ ७.२,३८.१४
गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः ॥ ७.२,३८.१४
संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च ॥ ७.२,३८.१५
स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते ॥ ७.२,३८.१५
रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ॥ ७.२,३८.१६
सिध्यंति प्रणिपत्यैनं दिशंति सुरयोषितः ॥ ७.२,३८.१६
योगसिद्ध्यैकदेशे ऽपि दृष्टे मोक्षे भवेन्मतिः ॥ ७.२,३८.१७
दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति ॥ ७.२,३८.१७
कृशता स्थूलता बाल्यं वार्धक्यं चैव यौवनम् ॥ ७.२,३८.१८
नानाचातिस्वरूपं च चतुर्णां देहधारणम् ॥ ७.२,३८.१८
पार्थिवांशं विना नित्यं सुरभिर्गन्धसंग्रहः ॥ ७.२,३८.१९
एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥ ७.२,३८.१९
जले निवसनं चैव भूम्यामेवं विनिर्गमः ॥ ७.२,३८.२०
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ ७.२,३८.२०
यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ॥ ७.२,३८.२१
विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥ ७.२,३८.२१
यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् ॥ ७.२,३८.२२
रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम् ॥ ७.२,३८.२२
निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ॥ ७.२,३८.२३
तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम् ॥ ७.२,३८.२३
शरीरादग्निनिर्माणं तत्तापभयवर्जनम् ॥ ७.२,३८.२४
शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ॥ ७.२,३८.२४
स्थापनं वानलस्या ऽप्सु पाणौ पावकधारणम् ॥ ७.२,३८.२५
दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् ॥ ७.२,३८.२५
द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥ ७.२,३८.२५
एतच्चतुर्विंशतिधा तैजसं परिचक्षते ॥ ७.२,३८.२६
मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम् ॥ ७.२,३८.२६
५९६
पर्वतादिमहाभारधारणञ्चाप्रयत्नतः ॥ ७.२,३८.२७
गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम् ॥ ७.२,३८.२७
अंगुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् ॥ ७.२,३८.२८
एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः ॥ ७.२,३८.२८
द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः ॥ ७.२,३८.२९
छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम् ॥ ७.२,३८.२९
खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः ॥ ७.२,३८.३०
आकाशलंघनं चैव स्वदेहे तन्निवेशनम् ॥ ७.२,३८.३०
आकाशपिण्डीकरणमशरीरत्वमेव च ॥ ७.२,३८.३१
अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥ ७.२,३८.३१
ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते ॥ ७.२,३८.३२
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ ७.२,३८.३२
सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् ॥ ७.२,३८.३३
कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ ७.२,३८.३३
संसारदर्शनं चैव भोगैरैन्द्रैस्समन्वितम् ॥ ७.२,३८.३४
एतच्चांद्रमसैश्वर्यं मानसं गुणतो ऽधिकम् ॥ ७.२,३८.३४
छेदनं ताडनं चैव बंधनं मोचनं तथा ॥ ७.२,३८.३५
ग्रहणं सर्वभूतानां संसारवशवर्तिनाम् ॥ ७.२,३८.३५
प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ॥ ७.२,३८.३६
आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ ७.२,३८.३६
एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ॥ ७.२,३८.३७
सर्गः संकल्पमात्रेण त्राणं संहरणं तथा ॥ ७.२,३८.३७
स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ॥ ७.२,३८.३८
असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ ७.२,३८.३८
शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ॥ ७.२,३८.३९
चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ ७.२,३८.३९
बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ॥ ७.२,३८.४०
वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ॥ ७.२,३८.४०
ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ ७.२,३८.४०
तत्पौरुषं च गौणं च गणेशं पदमैश्वरम् ॥ ७.२,३८.४१
विष्णुना तत्पदं किंचिज्ज्ञातुमन्यैर्न शक्यते ॥ ७.२,३८.४१
विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः ॥ ७.२,३८.४२
निरोद्धव्या प्रयत्नेन वर्राग्येण परेण तु ॥ ७.२,३८.४२
प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः ॥ ७.२,३८.४३
न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम् ॥ ७.२,३८.४३
तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् ॥ ७.२,३८.४४
तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत् ॥ ७.२,३८.४४